नवग्रह स्त्रोत्र लिरिक्स संस्कृत | Navgrah Stotra Lyrics

श्री नवग्रहस्तोत्रम्

devpujabooking

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । 

तमोऽरिं सर्वपापन्नं प्रणतोऽस्मि दिवाकरम्॥१॥ 

दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् ।  

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥  

धरणीगर्भसम्भूतं    विद्युत्कान्तिसमप्रभम् । 

कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥३॥ 

प्रियङ्गकलिकाश्यामं रूपेणाप्रतिमं बुधम् । 

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४ ॥ 

देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम् । 

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥५॥ 

हिमकुन्दमृणालाभं दैत्यानां  परमं गुरुम् । 

सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥६॥ 

नीलाचनसमाभासं रविपुत्रं यमाग्रजम् ।  

छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥ ७॥ 

अर्घकायं महावीर्यं चन्द्रादित्यविमर्दनम् । 

सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् ॥८॥ 

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥९॥  

इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः । 

दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥१०॥ 

नरनारीनृपाणां   च  भवेद्दुःस्वप्ननाशनम् । 

ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥११॥ 

॥ महर्षिव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ॥

Comments

No comments yet. Why don’t you start the discussion?

    Leave a Reply

    Your email address will not be published. Required fields are marked *