।।मुण्डमालातन्त्रोक्त महाविद्या स्तोत्रम्।।
ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि ।
नमस्ते कालिके कालमहाभयविनाशिनि ।।
शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे।।
प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ॥
जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम्।
करालां विकटां घोरां मुण्डमालाविभूषिताम् ॥
हरार्चितां हराराध्यां नमामि हरवल्लभाम्।।
गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ॥
हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् ।।
सिद्धां सिद्धेश्वरीं सिद्धविद्याधरगणैर्युताम् ॥
मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् ।
प्रणमामि महामायां दुर्गा दुर्गतिनाशिनीम् ॥
उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम् ।।
नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ॥
श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम् ।
प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ॥
विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम्।
आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् ।।
श्री दुर्गा धनदामन्नपूर्णा पद्मां सुरेश्वरीम्।।
धन प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् ॥
त्रिपुरां सुन्दरीं बालामबलागणभूषिताम् । ।
शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ॥
सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम् । ।
नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् ॥
सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम् ।
सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ।।
विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम्।
महेशभक्तां माहेशीं महाकालप्रपूजिताम् ॥
प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम्। ।
रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ।।
भैरवीं भुवनां देवीं लोलजिह्वां सुरेश्वरीम्। ।
चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ॥
त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम ॥
अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् ।।
कमलां छिन्नभालाञ्च मातंगीं सुरसुन्दरीम्।
षोडशीं विजयां भीमां धूमाञ्च वगलामुखीम् ॥
सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम्।।
प्रणमामि जगत्तारां साराञ्च मन्त्रसिद्धये ॥
इत्येवश्च वरारोहे, स्तोत्रं सिद्धिकरं परम्।।
पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ।।