श्री सूक्त पाठ लिरिक्स | लक्ष्मी प्राप्ति सुख समृद्धि के लिए पढ़े श्री सूक्त पाठ | Shri Sukt Path

श्री सूक्त पाठ लिरिक्स

लक्ष्मी प्राप्ति सुख समृद्धि के लिए पढ़े श्री सूक्त पाठ

श्री सूक्त पाठ लिरिक्स | लक्ष्मी प्राप्ति सुख समृद्धि के लिए पढ़े श्री सूक्त पाठ | Shri Sukt Path

श्री सूक्तम्

ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजाम् ।

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥ १ ॥

तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम् ।

यस्यां हिरण्यं विन्देयं गामश्चं पुरुषानहम् ॥ २ ॥

अश्वपूर्वा रथमध्यां हस्तिनादप्रमोदिनीम् ।

श्रियं देवीमुप ह्वये श्रीर्मा देवी जुषताम् ॥ ३॥ 

कां सोस्मितां हिरण्यप्राकारामार्दा ज्वलन्तीं तृप्तां तर्पयन्तीम् । 

पद्येस्थितां पद्मवर्णां तामिहोप ह्वये श्रियम् ॥ ४ ॥ 

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्।

तां पद्मिनीमीं शरणं प्र पद्ये अलक्ष्मीमें नश्यतां त्वां वृणे ॥५॥

आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । 

तस्य फलानि तपसा नुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मीः ॥ ६ ॥ 

उपैतु मां देवसखः कीर्तिश्च मणिना सह । 

प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ ७ ॥ 

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं  नाशयाम्यहम् ।

अभूतिमसमृद्धिं च सर्वां  निर्णुद मे गृहात् ॥ ८ ॥

 गन्धद्वारां दुराधर्षां नित्यपुष्टां   करीषिणीम् ।

 ईश्वरीं सर्वभूतानां तामिहोप ह्वये श्रियम् ॥ ९ ॥ 

मनसः काममाकूर्ति वाचः  सत्यमशीमहि । 

पशूनां रूपमन्त्रस्य मयि श्रीः श्रयतां यशः ॥ १० ॥

कर्दमेन प्रजा भूता मयि सम्भव कर्दम । 

 श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ ११ ॥ 

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । 

नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२ ॥ 

आर्द्रा पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । 

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह । १३ ।। 

आर्द्रा यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । 

सूर्या हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ।। १४ ।। 

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । 

यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ।। १५ ।। 

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।

सूक्तं पञ्चदशर्च च श्रीकामः सततं जपेत् ॥ १६ ॥ 

पद्मानने पद्मदिपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि । 

विश्वप्रिये विष्णुमनोऽनुकूले त्वत्पादपद्यं मयि सं नि धत्स्व ॥ १७ ।। 

पद्मानने पद्मऊरू पद्माक्षि पद्मसम्भवे । 

तन्ये भजसि पद्माक्षि येन सौख्यं लभाम्यहम् ॥ १८ ॥

अश्वदायि गोदायि धनदायि  महाधने । 

धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥ १९ ॥

पुत्रपौत्रधनं धान्यं  हस्त्यश्वाश्वतरी रथम् ।

प्रजानां भवसि मता आयुष्मन्तं करोतु मे ॥२० ॥

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।

धनमिन्द्रो बृहस्पतिर्वरुणो धनमश्विना ।।२१ ।।

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।

सोमं धनस्य सोमिनो महां ददातु सोमिनः ॥ २२ ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।

भवन्ति कृतपुण्यानां भक्त्या श्रीसूक्तजापिनाम् ॥ २३ ॥

सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे ।

भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ २४ ॥

विष्णुपत्नीं  क्षमां  देवीं  माधवीं   माधवप्रियाम् ।

लक्ष्मीं प्रियसखीं भूमिं  नमाम्यच्युतवल्लभाम् ॥ २५ ॥

महालक्ष्म्यै च विद्महे विष्णुपत्यै च  धीमहि ।

तन्नो    लक्ष्मीः   प्र  चोदयात् ।। २६ ।।

आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः ।

ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः ।। २७ ।।

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः

भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥ २८ ॥

श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते ।

धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः॥ २९॥

॥ ऋग्वेदोक्तं श्रीसूक्तं सम्पूर्णम् ॥

Comments

No comments yet. Why don’t you start the discussion?

    Leave a Reply

    Your email address will not be published. Required fields are marked *