श्री सत्यनारायणाष्टकम् आदिदेवं जगत्कारणं | Satyanarayan Ashtakam

  श्रीसत्यनारायणाष्टकम्

आदिदेवं जगत्कारणं श्रीधरं लोकनाथं विभुं व्यापकं शङ्करम् ।

सर्वभक्तेष्टदं मुक्तिदं माधवं सत्यनारायणं विष्णुमीशम्भजे ॥ १ ॥ 

 

सर्वदा लोककल्याणपारायणं देवगोविप्ररक्षार्थसद्विग्रहम्।

दीनहीनात्मभक्ताश्रयं सुन्दरं सत्य ॥ २ ॥ 

 

दक्षिणे यस्य गङ्गा शुभा शोभते राजते सा रमा यस्य वामे सदा ।

यः प्रसन्नाननो भाति भव्यश्च तं सत्य ॥ ३ ॥

 

सङ्कटे सङ्गरे यं जनः सर्वदा स्वात्मभीनाशनाय स्मरेत् पीडितः ।

पूर्णकृत्यो भवेद् यत्प्रसादाच्च तं सत्य० ।। ४ ॥

 

वाञ्छितं दुर्लभं यो ददाति प्रभुः साधवे स्वात्मभक्ताय भक्तिप्रियः।

सर्वभूताश्रयं तं हि विश्वम्भरं सत्यः ॥ ५ ॥

 

ब्राह्मणः साधुवैश्यश्च तुङ्गध्वजो येऽभवन् विश्रुताः भक्त्यामराः ।

लीलया यस्य विश्वं ततं तं विभुं सत्य० ।। ६॥

 

येन चाब्रह्मबालतृणं धार्यते सृज्यते पाल्यते सर्वमेतज्जगत् ।

भक्तभावप्रियं श्रीदयासागरं सत्य० ॥ ७ ॥ 

 

सर्वकामप्रदं सर्वदा सत्प्रियं वन्दितं देववृन्दैर्मुनीन्द्रार्चितम्। 

पुत्रपौत्रादिसर्वेष्टदं शाश्वतं सत्य० ॥ ८ ॥

 

अष्टकं सत्यदेवस्य भक्त्या नरः भावयुक्तो मुदा यस्त्रिसन्ध्यं पठेत्

तस्य नश्यन्ति पापानि तेनाग्निना इन्धनानीव शुष्काणि सर्वाणि वै ॥ ९ ॥

 

॥ श्रीसत्यनारायणाष्टकं सम्पूर्णम् ॥ 

श्री सत्यनारायणाष्टकम् आदिदेवं जगत्कारणं लिरिक्स

Comments

No comments yet. Why don’t you start the discussion?

    Leave a Reply

    Your email address will not be published. Required fields are marked *