पुरुष सूक्तम संस्कृत लिरिक्स | Purusha Suktam Lyrics

पुरुष सूक्तम्

पुरुष सूक्तम संस्कृत लिरिक्स | Purusha Suktam Lyrics

ॐ सहस्रशीर्षा पुरुषः सहस्त्राक्षः सहस्रपात् ।

 स भूमि गुंग  सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥

पुरुष एवेद गुंग सर्वं यद्भूतं यच्च भाव्यम् ।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २ ॥

एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।। ३ ॥ 

त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पु नः ।

ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ ४ ॥  

ततो विराडजायत विराजो अधि  पूरुषः ।

स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ ५ ॥

तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् । 

पशूस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ ६ ॥ 

तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।

छन्दा सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।॥ ७ ॥ 

तस्मादश्वा अजायन्त ये के चोभयादतः ।

गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ ८ ॥ 

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।

तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ९ ॥ 

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । 

मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥ १० ॥ 

ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः ।

ऊरू तदस्य यद्वैश्यः पद्भ्या शूद्रो अजायत ॥ ११ ॥ 

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । 

श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ १२ ॥ 

नाभ्या आसीदन्तरिक्ष शीर्णो द्यौः समवर्तत । 

पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँर अकल्पयन् ॥ १३ ॥

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ।॥ १४ ॥

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।

 देवा यद्यज्ञं तन्वाना अबघ्नन् पुरुषं पशुम् ॥ १५ ॥ 

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । 

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।। १६ ।।

॥ पुरुषसूक्तं सम्पूर्णम् ॥

Comments

No comments yet. Why don’t you start the discussion?

    Leave a Reply

    Your email address will not be published. Required fields are marked *