ऋण मोचन गणपति स्त्रोत
अस्य श्री ऋणमोचनमहागणपतिस्तोत्रमन्त्रस्य शुक्राचार्य ऋषिः ऋणविमोचन-महागणपतिदेवता, अनुष्टुप् छन्दः, ऋणविमोचनमहागणपतिप्रीत्यर्थे जपे विनियोगः।
ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलम् ।
षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ॥१॥
महागणपतिं वन्दे महासेतुं महाबलम् ।
एकमेवाद्वितीयं तु नमामि ऋणमुक्तये ॥२॥
एकाक्षरं एकदन्तम एकब्रह्म सनातनम्।
महाविघ्नहरं देवं नमामि ऋणमुक्तये ॥३॥
शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम् ।
सर्वशुक्लमयं देवं नमामि ऋणमुक्तये ॥४॥
रक्ताम्बरं रक्तवर्ण रक्तगन्धानुलेपनम्।
रक्तपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥५॥
कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ।
कृष्णयज्ञोपवीतं च नमामि ऋणमुक्तये ॥६॥
पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम्।
पीतपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥७॥
धूम्राक्षं धूम्रवर्णं धूम्रगन्धानुलेपनम् ।
धूम्रपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥८॥
सर्वसर्वात्मकं सर्वं वर्णं सर्वगन्धानुलेपनम् ।
सर्वपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥६॥
एतद् ऋणहरं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।
षणमासाभ्यन्तरे तस्य ऋणच्छेदो न संशयः॥
सहस्र दशकं कृत्वा ऋणमुक्तो धनी भवेत् ॥१०॥
ऋण मोचन गणपति स्त्रोत
इस ऋण मोचन गणेश स्तोत्रम् का प्रतिदिन पाठ करते रहने से ऋण का मोचन हो जाता है (कर्ज को शीघ्र चुकाने की व्यवस्था बनती जाती है) साधक धनवान बन जाता है।