Ganesh Pancharatna | गणेशपञ्चरत्नम् – मुदाकरात्तमोदकं श्री गणेश पंचरत्नम स्त्रोत सम्पूर्ण

Spread the love

गणेशपञ्चरत्नम्

Ganesh Pancharatna | गणेशपञ्चरत्नम् - मुदाकरात्तमोदकं श्री गणेश पंचरत्नम स्त्रोत सम्पूर्ण

मुदा करात्तमोदकं सदा विमुक्तिसाधकं

कलाधरावतंसकं विलासिलोकरञ्जकम् ।

अनायकैकनायकं विनाशितेभदैत्यकं

नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥ 

नतेतरातिभीकरं नवोदितार्कभास्वरं

नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।

सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं

महेश्वरं तमाश्रये परात्परं निरन्तरम् ।। २ ।। 

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं

दरेतरोदरं वरं वरेभवकत्रमक्षरम् । 

कृपाकरं क्षमाकरं मुदाकरं यशस्करं

नमस्करं नमस्कृतां नमस्करोमि भास्वरम् ।। ३ ।।

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं

पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।

प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं

कपोलदानवारणं भजे पुराणवारणम् ।।४ ॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मज- 

मचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्

हृदन्तरे निरन्तरं वसन्तमेव योगिनां

तमेकदन्तमेव तं विचिन्तयामि संततम् ॥ ५ ॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं

प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम् । 

अरोगतामदोषतां सुसाहितीं सुपुत्रतां

समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६ ॥

॥ श्रीमच्छङ्कराचार्यकृतं गणेशपञ्चरत्नस्तोत्रं सम्पूर्णम् ॥

Comments

No comments yet. Why don’t you start the discussion?

    Leave a Reply

    Your email address will not be published. Required fields are marked *