।।भवान्यष्टकम्।।
ना तातो ना माता
ना तातो ना माता ना बन्धुर्न न दाता
न पुत्रो न पुत्री न भृत्यो न भर्ता ।
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। १
भवाब्धावपारे महादुःखभीरु :
प्रपातः प्रकामी प्रलोभी प्रमत्तः ।
कुसंसारपाशप्रबद्धः सदाहम्
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। २।।
न जानामि दानं न च ध्यान योगं
न जानामि तन्त्रं न च स्तोत्रमन्त्रम् ।
न जानामि पूजां न च न्यास योगम
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।3
न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित् ।
न जानामि भक्ति व्रतं वापि मातर्
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। ४।।
कुकर्मी कुसंङ्गीः कुबुद्धिः कुदास :
कुलाचारहीनः कदाचारलीनः ।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहम् ।
गतिस्त्वं गति स्त्वं त्वमेका भवानि ।। ५।।
प्रजेशं रमेशं महेशं सुरेशं
दिनेशं निशीथेश्वरं वा कदाचित् ।
न जानामि चान्यत् सदाहं शरण्ये
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। ६ ।।
विवादे विषादे प्रमादे प्रवासे
जले चानले पर्वते शत्रुमध्ये ।
अरण्ये शरण्ये सदा मां प्रपाहि
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। ७ ।।
अनाथो दरिद्रो जरारोगयुक्तो
महाक्षीणदीनः सदा जाड्यवक्त्रः ।
विपत्तौ प्रविष्टः प्रनष्टः सदाहम्
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ।। ८ ।।
।। श्री जगदम्वार्पणमस्तु ।।
।। इति श्री मच्छकराचार्य कृतं भवान्यष्टकं सम्पूर्णम् ।।