संकटनाशक गणेश स्तोत्र लिरिक्स । Sankat Nashan Ganesh Stotra Lyrics

संकटनाशक गणेश स्तोत्र लिरिक्स

संकटनाशक गणेश स्तोत्र लिरिक्स
 ॥नारद उवाच॥
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्। 
 
भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ॥१॥ 
 
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । 
 
तृतीयं कृष्ण पिंगाक्षं गजवक्त्रं चतुर्थकम् ॥२॥ 
 
लम्बोदरं पंचमं च षष्ठं विकटमेव च।
 
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमम् ॥ ३ ॥
 
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
 
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥
 
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः। 
 
न च विघ्नभयं तस्य सर्वसिद्धकिरं प्रभो ॥५॥
 
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
 
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥ 
 
जपेद्गणपतिस्तोत्रं ष‌ड्भिर्मासैः फलं लभेत्।
 
संवत्सरेण सिद्धिं च लभते नात्र संशयः॥७॥
 
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्। 
 
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥ ॥
 
 इति श्री नारदपुराणे गणेशस्तोत्रं सम्पूर्णम् ॥
 

Comments

No comments yet. Why don’t you start the discussion?

    Leave a Reply

    Your email address will not be published. Required fields are marked *